Showing posts with label Stotram. Show all posts
Showing posts with label Stotram. Show all posts

Tuesday, 7 November 2017

|शिवताण्डवस्तोत्रम् |
||श्रीगणेशाय नमः ||
जटा टवी गलज्जल प्रवाह पावितस्थले, गलेऽवलम्ब्य लम्बितां भुजङ्ग तुङ्ग मालिकाम् |
डमड्डमड्डमड्डमन्निनाद वड्डमर्वयं, चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ||१||
जटा कटा हसंभ्रम भ्रमन्निलिम्प निर्झरी, विलो लवी चिवल्लरी विराजमान मूर्धनि |
धगद् धगद् धगज्ज्वलल् ललाट पट्ट पावके किशोर चन्द्र शेखरे रतिः प्रतिक्षणं मम ||२||
धरा धरेन्द्र नंदिनी विलास बन्धु बन्धुरस् फुरद् दिगन्त सन्तति प्रमोद मानमानसे |
कृपा कटाक्ष धोरणी निरुद्ध दुर्धरापदि क्वचिद् दिगम्बरे मनो विनोदमेतु वस्तुनि ||३||
लता भुजङ्ग पिङ्गलस् फुरत्फणा मणिप्रभा कदम्ब कुङ्कुमद्रवप् रलिप्तदिग्व धूमुखे |
मदान्ध सिन्धुरस् फुरत् त्वगुत्तरीयमे दुरे मनो विनोद मद्भुतं बिभर्तु भूतभर्तरि ||४||
सहस्र लोचनप्रभृत्य शेष लेखशेखर प्रसून धूलिधोरणी विधूस राङ्घ्रि पीठभूः |
भुजङ्ग राजमालया निबद्ध जाटजूटक श्रियै चिराय जायतां चकोर बन्धुशेखरः ||५||
ललाट चत्वरज्वलद् धनञ्जयस्फुलिङ्गभा निपीत पञ्चसायकं नमन्निलिम्प नायकम् |
सुधा मयूखले खया विराजमानशेखरं महाकपालिसम्पदे शिरोज टालमस्तु नः ||६||
कराल भाल पट्टिका धगद् धगद् धगज्ज्वल द्धनञ्जयाहुती कृतप्रचण्ड पञ्चसायके |
धरा धरेन्द्र नन्दिनी कुचाग्र चित्रपत्रक प्रकल्प नैक शिल्पिनि त्रिलोचने रतिर्मम |||७||
नवीन मेघ मण्डली निरुद् धदुर् धरस्फुरत्- कुहू निशीथि नीतमः प्रबन्ध बद्ध कन्धरः |
निलिम्प निर्झरी धरस् तनोतु कृत्ति सिन्धुरः कला निधान बन्धुरः श्रियं जगद् धुरंधरः ||८||
प्रफुल्ल नीलपङ्कज प्रपञ्च कालिम प्रभा- वलम्बि कण्ठकन्दली रुचिप्रबद्ध कन्धरम् |
स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं गजच्छि दांध कच्छिदं तमंत कच्छिदं भजे ||९||
अखर्व सर्व मङ्गला कला कदंब मञ्जरी रस प्रवाह माधुरी विजृंभणा मधुव्रतम् |
स्मरान्तकं पुरान्तकं भवान्तकं मखान्तकं गजान्त कान्ध कान्त कं तमन्त कान्त कं भजे ||१०||
जयत् वदभ्र विभ्रम भ्रमद् भुजङ्ग मश्वस – द्विनिर्ग मत् क्रमस्फुरत् कराल भाल हव्यवाट् |
धिमिद्धिमिद्धिमिध्वनन्मृदङ्गतुङ्गमङ्गल ध्वनिक्रमप्रवर्तित प्रचण्डताण्डवः शिवः ||११||
स्पृषद्विचित्रतल्पयोर्भुजङ्गमौक्तिकस्रजोर्- – गरिष्ठरत्नलोष्ठयोः सुहृद्विपक्षपक्षयोः |
तृष्णारविन्दचक्षुषोः प्रजामहीमहेन्द्रयोः समप्रवृत्तिकः ( समं प्रवर्तयन्मनः) कदा सदाशिवं भजे ||१२||
कदा निलिम्पनिर्झरीनिकुञ्जकोटरे वसन् विमुक्तदुर्मतिः सदा शिरः स्थमञ्जलिं वहन् |
विमुक्तलोललोचनो ललामभाललग्नकः शिवेति मंत्रमुच्चरन् कदा सुखी भवाम्यहम् ||१३||
इदम् हि नित्यमेवमुक्तमुत्तमोत्तमं स्तवं पठन्स्मरन्ब्रुवन्नरो विशुद्धिमेतिसंततम् |
हरे गुरौ सुभक्तिमाशु याति नान्यथा गतिं विमोहनं हि देहिनां सुशङ्करस्य चिंतनम् ||१४||
पूजा वसान समये दशवक्त्र गीतं यः शंभु पूजन परं पठति प्रदोषे |
तस्य स्थिरां रथगजेन्द्र तुरङ्ग युक्तां लक्ष्मीं सदैव सुमुखिं प्रददाति शंभुः ||१५||
इति श्रीरावण- कृतम् शिव- ताण्डव- स्तोत्रम् सम्पूर्णम्

Tuesday, 31 October 2017

Vishveshvaralahari Stotram

विश्वेश्वरलहरी

Vishveshvaralahari

सिद्धिबुद्धिपतिं वन्दे श्रीगणादीश्वरं मुदा ।
तस्य यो वन्दनं कुर्यात् स धीनां योगमिन्वति ॥१॥
वन्दे काशीपतिं काशी जाता यत्कृपया पुरी ।
प्रकाशनार्थं भक्तानां होतारं रत्नधातमम् ॥२॥
भक्तावनं करोमीति मा गर्वं वह शङ्कर ।
तेभ्यः स्वपूजाग्रहणात्तवेतत्सत्यमङ्गिरः ॥३॥
मुधा लक्ष्मीं कामयन्ते चञ्चलां सकला जनाः ।
काशीरूपां कामयेऽहं लक्ष्मीमनपगामिनीम् ॥४॥
प्राप्नुवन्तु जना लक्ष्मीं मदान्धनृपसेवनात् ।
लभे विश्वेशसेवातो गामश्वं पुरुषानहम् ॥५॥
न मत्कुटुंबरक्षार्थं माहूयामि श्रियं बुधाः ।
विश्वेश्वराराधनार्थं श्रियं देवीमुपह्वये ॥६॥
आपातरमणीयेयं श्रीर्मदान्धकरी चला ।
असारसंसृतौ काशीं सा हि श्रीरमृता सताम् ॥७॥
काशी गङ्गाऽन्नपूर्णा च विश्वेशाद्याश्च देवताः ।
अवन्तु बालमज्ञं मामुशतीरिव मातरः ॥८॥
सदैव दुःखकारिणीं न संसृतिं हि कामये
शिवप्रियां सुखप्रदां परां पुरीं हि कामये ।
स्वभक्तदुःखहारकं मनोरथप्रपूरकं
शिवं सदा मुदा भजे महेरणाय चक्षसे ॥९॥
स्वसेवकसुतादीनां पालनं कुर्वते नृपाः ।
पास्येवास्मांस्तु विश्वेश गीर्वाणः पाहि नः सुतान् ॥१०॥
निषेव्य काशिकां पुरीं सदाशिवं प्रपूज्य वै
गुरोर्मुखारविन्दतः सदादिरूपमद्वयम् ।
विचार्य रूपमात्मनो निषेध्य नश्वरं जडं
चिदात्मना तमोभिदं धनेन हन्मि वृश्चिकम् ॥११॥
हे भागीरथि हे काशि हे विश्वेश्वर ते सदा ।
कलयामि स्तवं श्रेष्ठमेष रारन्तु ते हृदि ॥१२॥
विश्वनाथ सदा काश्यां देह्यस्मभ्यं धनं परम् ।
पुरा युद्धेषु दैत्यानां विद्महे त्वां धनञ्जयम् ॥१३॥
अविनाशि पुरा दत्तं भक्तेभ्यो द्रविणं त्वया ।
काशिविश्वेशगङ्गे त्वामथ ते स्तुम्नमीमहे ॥१४॥
संसारदाववह्नौ मां पतितं दुःखितं तव ।
विश्वेश पाहि गङ्गाद्यैरागत्य वृषभिः सुतम् ॥१५॥
काशीं प्रति वयं याम दयया विश्वनाथ ते ।
तत्रैव वासं कुर्याम वृक्षे न वसतिं वयः ॥१६॥
हे सरस्वति हे गङ्गे हे कालिन्दि सदा वयम् ।
भजामामृतरूपं तं यो वः शिवतमो रसः ॥१७॥
विश्वनाथेदमेव त्वां याचाम सततं वयम् ।
स्थित्वा काश्यामध्वरे त्वां हविष्मन्तो जरामहे ॥१८॥
सर्वासु सोमसंस्थासु काश्यामिन्द्रस्वरूपिणे ।
हे विश्वेश्वर ते नित्यं सोमं चोदामि पीतये ॥१९॥
काश्यां रौद्रेषु चान्येषु यजाम त्वां मखेषु वै ।
हे विश्वेश्वर देवैस्त्वं रारन्धि सवमेषु नः ॥ २०॥
मां मोहाद्या दुर्जनाश्च बाधन्ते निष्प्रयोजनम् ।
विश्वेश्वर ततो मे त्वां वरुत्रीं धिषणां वह ॥२१॥
रुद्राक्षभस्मधारी त्वां काश्यां स्तौमीश संस्तवैः ।
त्वत्पादांबुजभृङ्गं मां न स्तोतारं निदेकरः ॥२२॥
विहाय चञ्चलं वधूसुतादिकं हि दुःखदं
त्वदीयकामसंयुता भवेम काशिकापुरी ।
स्वसेवकार्तिनाशक प्रकृष्टसंविदर्पक
भवैव देव सन्ततं ह्युतत्वमस्मयुर्वसो ॥२३॥
विश्वेश काश्यां गङ्गायां स्नात्वा त्वां रम्यवस्तुभिः ।
पूजयाम वयं भक्त्या कुशिकासो अवस्यवः ॥२४॥
विश्वेश नित्यमस्मभ्यं भयमुत्पादयन्ति ये ।
तेषां विधायोपमर्दं ततो नो अभयं कृधि ॥२५॥
राक्षसानां स्वभावोऽयं बाध्या विश्वेश जीवकाः ।
भक्तानुकंपया शंभो सर्वं रक्षो निबर्हय ॥२६॥
विश्वेश्वर सदा भीतः संसारर्णवज्जनात् ।
मां पालय सदेति त्वां पुरुहूतमुपब्रुवे ॥२७॥
इदं विमृश्यनश्वरं जडं सदैव दुःखदं
समर्चितुं शिवं गताः पराः पुरीं यतो द्विजाः ।
ततोऽभिगम्य तां पुरीं समर्च्य वस्तुभिः परैः
शिवं स्वभक्तमुक्तिदं तमिल्यखित्व ईमहे ॥२८॥
काश्यां वयं सदैव त्वां यजाम सकलैर्मखैः ।
विश्वेश्वर त्वं समग्रैर्देवैरासत्सि बर्हिषि ॥२९॥
यक्षेश्वरेण रक्षितं श्रेष्ठं धनमखेषु ते ।
देहि व्ययाय शङ्कर ह्यस्मभ्यमप्रतिष्कृतः ॥३०॥
मत्पूर्वजा महाशैवा भस्मरुद्राक्षधारिणः ।
विश्वेश्वर सुरेषु त्वामद्वशमिव येमिरे ॥३१॥
शंभोर्विधाय येऽर्चनं तिष्ठन्ति तत्परा यदा ।
तान् शङ्करो गिरे द्रुतं यूथेन वृष्णिरेजति ॥३२॥
त्वां पूजयामीश सुरं मानसैर्दिव्यवस्तुभिः ।
हे विश्वेश्वर देवैस्त्वं सोम रारन्धि नो हृदि ॥३३॥
प्रादुर्भवसि सद्यस्त्वं क्लेशो भक्तजने यदा ।
ततोऽहं क्लेशवान् कुर्वे सद्योजाताय वै नमः ॥३४॥
वामदेवेति मनू रम्यतां यस्य सञ्जगौ ।
ईशस्तस्मात्कियते वामदेवाय ते नमः ॥३५॥
दयासिन्धो दीनबन्धो योऽस्तीश वरदः करः ।
अस्माकं वरदानेन स युक्तस्तेऽस्तु दक्षिणः ॥३६॥
दुष्टभीतस्य मे नित्यं करस्तेऽभयदायकः ।
महेशाभयदाने स्यादुत सव्यः शतक्रतो ॥३७॥
महेश्वरीयपदपद्मसेवकः पुरन्दरादिपदनिःस्पृहः सदा ।
जनोऽस्ति यः सततदुर्गतः प्रभो पृणक्षि वसुना भवीयसा ॥३८॥
रक्षणाय नास्ति मे त्वां विनेश साधनम् ।
निश्चयेन हे शिव त्वामवस्युराचके ॥३९॥
रोगैर्दुःखैर्वैरिगणैश्च युक्तास्त्वद्दासत्वाच्छङ्कर तत्सहस्व ।
रम्यं स्तोत्रं रोषकरं वचो वा यत्किञ्चाहं त्वायुरिदं वदामि ॥४०॥
ध्यायाम वस्तु शङ्करं याचाम धाम शङ्करम् ।
कुर्याम कर्म शङ्करं वोचेम शन्तमं हृदे ॥४१॥
माता तातः स्वादिष्ठं च पौष्टिकं मन्वाते वाक्यं बालस्य कुत्सितम् ।
यद्वत्तद्वाक्यं मेऽस्तु शंभवे स्वादोः स्वादीयो रुद्राय बन्धनम् ॥४२॥
शिवं सुगन्धिसंयुतं स्वभक्तपुष्टिवर्धनम् ।
सुदीनभक्तपालकं त्रियम्बकं यजामहे ॥४३॥
देव देव गिरिजावल्लभ त्वं पाहि पाहि शिव शंभो महेश ।
यद्वदामि सततं स्तोत्रवाक्यं तज्जुषस्व कृधि मा देववन्तम् ॥४४॥
त्यक्त्वा सदा निष्फलकार्यभारं धॄत्वा सदा शङ्करनामसारम् ।
हे जीव जन्मान्तकनाशकारं यक्ष्यामहे सौमनसाय रुद्रम् ॥४५॥
स्थित्वा काश्यां निर्मलगङ्गातोये स्नात्वा संपूज्य त्रिदशेश्वरं वै ।
तस्य स्तोत्रं पापहरैस्तु देव भद्रं कर्णेभिः शृणुयाम देवाः ॥४६॥
वाराणस्यां शङ्करं सुराढ्यं संपूज्येशं वसुभिः सुकान्तैः ।
अग्रे नृत्यन्तः शिवस्य रूपं भद्रं पश्येमाक्षभिर्यजत्राः ॥४७॥
इच्छामस्त्वां पूजयितुं वयं विश्वेश सन्ततम् ॥
प्रयच्छ नो धनं श्रेष्ठं यशसं वीरवत्तमम् ॥४८॥
काश्यामुषित्वा गङ्गायां स्रात्वा संपूज्य शङ्करम् ।
ध्यात्वा तच्चरणौ नित्यमलक्ष्मीर्नाशयाम्यहम् ॥४९॥
असत्पदं स्वहर्षदं न चान्यहर्षदायकं
सदा मुदा प्रसूर्यथा शृणोति भाषितं शिशोः ।
शिवापगाशिवाबलाशिवालयासमन्वित-
स्तथा शिवेश नः सुरैर्गिरमुपश्रुतिं चर ॥५०॥
सगरस्यात्मजा गङ्गे मताः सन्तारितास्त्वया ।
अगरस्यात्मजा तस्मात् किं न तारयसि ध्रुवम् ॥५१॥
प्रायिकोऽयं प्रवादोऽस्तु तरन्ति तव सन्निधौ ।
तारकं नाम ते गङ्गे सन्निधेः किं प्रयोजनम् ।५२॥
मीनैरायतलोचने वसुमुखीवाब्जेन रोमावलीयुक्तो
राजवतीव पद्ममुकुलैः शैवालवल्ल्या युतैः ।
उद्भास्वज्जघनेन वालपुलिनैरुद्यद्भुजेवोर्मिभिर्-
गर्तेनोज्ज्वलनाभिकेव विलसत्येषा परं जाह्नवी ॥५३॥
शृङ्गारितां जलचरैः शिवसुन्दराङ्ग-
सङ्गां सदापहृतविश्वधवान्तरङ्गाम्
भृङ्गाकुलांबुजगलन्मकरन्दतुन्द-
भृङ्गावलीविलसितां कलयेऽथ गङ्गाम् ॥५४॥  
विश्वेशोऽसि धनाधिपप्रियसखा किं चान्नपूर्णापतिर्-
जामाता धरणीमृतो निरुपमाष्टैश्वर्ययुक्तः स्वयम् ।
चत्वार्येव तथापि दास्यसि फलान्यात्माश्रयान्ते चिरं
तेभ्योऽतो बत युज्यते पशुपते लब्धावतारस्तव ॥५५॥
दोषाकरं वहसि मूर्ध्नि कलङ्कवन्तं कण्ठे द्विजिह्वमतिवकगतिं सुघोरम् ।
पापीत्ययं मयि कुतो न कृपां करोषि युक्तैव ते विषमद्दष्टिरतो महेश ।५६॥
अस्ति त्रिनेत्रमुडुराजकला ममेति  
गर्वायते ह्यतितरां बत विश्वनाथ ।
त्वद्वासिनो जननकाशिशशाङ्कचूडा-
भालेक्षणाश्च न भवन्ति जनाः कियन्तः ॥५७॥
कामं सन्त्यज नश्वरेऽत्र विषये वामं पदं मा विश
क्षेमं चात्मन आचर त्वमदयं कामं स्मरस्वान्तकम् ।
भीमं दण्डधरस्य योतिहृदयारामं शिरप्रोल्लस-
त्सोमं भावया विश्वनाथमनिशं सोमं सखे मानसे ॥५८॥
संपूज्य त्रिदशवरं सदाशिवं यो
विश्वेशस्तुतिलहरीं सदा पठेद्वै ।
कैलासे शिवपदकञ्जराजहंस
आकल्पं स हि निवसेच्छिवस्वरूपः ॥५९॥
अनेन प्रीयतां देवो भगवान् काशिकापतिः ।
श्रीविश्वनाथः पूर्वेषामस्माकं कुलदैवतम् ॥६०॥
इयं विश्वेशलहरी रचिता खण्डयज्वना ।
विश्वेशतुष्टिदा नित्यं वसतां हृदये सताम् ॥६१॥
नाम्ना गुणैश्चापि शिवैव माता तातः शिवस्त्रयम्बकयज्वनामा ।
मल्लारिदेवः कुलदैवतं मे श्रीकौशिकस्यास्ति कुले च जन्म ॥६२॥
इति श्रीगणेशदीक्षितात्मजत्र्यम्बकदीक्षिततनूजखण्डराजदीक्षितविरचिता विश्वेश्वरलहरी संपूर्णा ॥

Asht Lakshmi Stotram

॥ अष्टलक्ष्मीस्तोत्रम् ॥

   ॥ आदिलक्ष्मी ॥

सुमनसवन्दित सुन्दरि माधवि
     चन्द्र सहोदरि हेममये ।
मुनिगणमण्डित मोक्षप्रदायिनि
     मञ्जुळभाषिणि वेदनुते ॥

पङ्कजवासिनि देवसुपूजित
     सद्गुणवर्षिणि शान्तियुते ।
जयजय हे मधुसूदन कामिनि
     आदिलक्ष्मि सदा पालय माम् ॥ १॥

   ॥ धान्यलक्ष्मी ॥

अहिकलि कल्मषनाशिनि कामिनि
     वैदिकरूपिणि वेदमये ।
क्षीरसमुद्भव मङ्गलरूपिणि
     मन्त्रनिवासिनि मन्त्रनुते ॥

मङ्गलदायिनि अम्बुजवासिनि
     देवगणाश्रित पादयुते ।
जयजय हे मधुसूदन कामिनि
     धान्यलक्ष्मि सदा पालय माम् ॥ २॥

  ॥ धैर्यलक्ष्मी ॥

जयवरवर्णिनि वैष्णवि भार्गवि
     मन्त्रस्वरूपिणि मन्त्रमये ।
सुरगणपूजित शीघ्रफलप्रद
     ज्ञानविकासिनि शास्त्रनुते ॥

भवभयहारिणि पापविमोचनि
     साधुजनाश्रित पादयुते ।
जयजय हे मधुसूदन कामिनि
     धैर्यलक्ष्मि सदा पालय माम् ॥ ३॥

   ॥ गजलक्ष्मी ॥

जयजय दुर्गतिनाशिनि कामिनि
     सर्वफलप्रद शास्त्रमये ।
रथगज तुरगपदादि समावृत
     परिजनमण्डित लोकनुते ॥

हरिहर ब्रह्म सुपूजित सेवित
     तापनिवारिणि पादयुते ।
जयजय हे मधुसूदन कामिनि
     गजलक्ष्मि रूपेण पालय माम् ॥ ४॥

   ॥ सन्तानलक्ष्मी ॥

अहिखग वाहिनि मोहिनि चक्रिणि
     रागविवर्धिनि ज्ञानमये ।
गुणगणवारिधि लोकहितैषिणि
     स्वरसप्त भूषित गाननुते ॥

सकल सुरासुर देवमुनीश्वर
     मानववन्दित पादयुते ।
जयजय हे मधुसूदन कामिनि
     सन्तानलक्ष्मि त्वं पालय माम् ॥ ५॥

   ॥ विजयलक्ष्मी ॥

जय कमलासनि सद्गतिदायिनि
     ज्ञानविकासिनि गानमये ।
अनुदिनमर्चित कुङ्कुमधूसर-
     भूषित वासित वाद्यनुते ॥

कनकधरास्तुति वैभव वन्दित
     शङ्कर देशिक मान्य पदे ।
जयजय हे मधुसूदन कामिनि
     विजयलक्ष्मि सदा पालय माम् ॥ ६॥

   ॥ विद्यालक्ष्मी ॥

प्रणत सुरेश्वरि भारति भार्गवि
     शोकविनाशिनि रत्नमये ।
मणिमयभूषित कर्णविभूषण
     शान्तिसमावृत हास्यमुखे ॥

नवनिधिदायिनि कलिमलहारिणि
     कामित फलप्रद हस्तयुते ।
जयजय हे मधुसूदन कामिनि
     विद्यालक्ष्मि सदा पालय माम् ॥७॥

   ॥ धनलक्ष्मी ॥

धिमिधिमि धिंधिमि धिंधिमि धिंधिमि
     दुन्दुभि नाद सुपूर्णमये ।
घुमघुम घुंघुम घुंघुम घुंघुम
    शङ्खनिनाद सुवाद्यनुते ॥

वेदपुराणेतिहास सुपूजित
     वैदिकमार्ग प्रदर्शयुते ।
जयजय हे मधुसूदन कामिनि
     धनलक्ष्मि रूपेण पालय माम् ॥ ८॥

Thursday, 12 May 2016

मधुराष्टकम्

अधरं मधुरं वदनं मधुरं,
नयनं मधुरं हसितं मधुरम्।
हृदयं मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥१॥

वचनं मधुरं चरितं मधुरं
वसनं मधुरं वलितं मधुरम्।
चलितं मधुरं भ्रमितं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥२॥

वेणुर्मधुरो रेणुर्मधुरः
पाणिर्मधुरः पादौ मधुरौ।
नृत्यं मधुरं सख्यं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥३॥

गीतं मधुरं पीतं मधुरं
भुक्तं मधुरं सुप्तं मधुरम् ।
रूपं मधुरं तिलकं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥४॥

करणं मधुरं तरणं मधुरं
हरणं मधुरं रमणं मधुरम्।
वमितं मधुरं शमितं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥५॥

गुंजा मधुरा माला मधुरा
यमुना मधुरा वीची मधुरा।
सलिलं मधुरं कमलं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥६॥

गोपी मधुरा लीला मधुरा
युक्तं मधुरं मुक्तं मधुरम् ।
दृष्टं मधुरं शिष्टं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥७॥

गोपा मधुरा गावो मधुरा
यष्टिर्मधुरा सृष्टिर्मधुरा।
दलितं मधुरं फलितं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥८॥

Tuesday, 10 May 2016

राघवयादवीयम

क्या ऐसा संभव है कि जब आप किताब को सीधा पढ़े तो
रामायण की कथा पढ़ी जाए और जब उसी किताब में लिखे
शब्दों को उल्टा करके पढ़े तो कृष्ण भागवत की कथा सुनाई दे।
जी हां, कांचीपुरम के 17वीं शती के कवि वेंकटाध्वरि रचित
ग्रन्थ राघवयादवीयम् ऐसा ही एक अद्भुत ग्रन्थ है। इस ग्रन्थ
को ‘अनुलोम-विलोम काव्य’ भी कहा जाता है।
पूरे ग्रन्थ में केवल 30 श्लोक हैं। इन श्लोकों को सीधे-सीधे
पढ़ते जाएँ, तो रामकथा बनती है और विपरीत (उल्टा) क्रम में
पढ़ने पर कृष्णकथा। इस प्रकार हैं तो केवल 30 श्लोक, लेकिन
कृष्णकथा के भी 30 श्लोक जोड़ लिए जाएँ तो बनते हैं 60
श्लोक। पुस्तक के नाम से भी यह प्रदर्शित होता है, राघव
(राम) + यादव (कृष्ण) के चरित को बताने वाली गाथा है
राघवयादवीयम। उदाहरण के तौर पर पुस्तक का पहला श्लोक हैः
वंदेऽहं देवं तं श्रीतं रन्तारं कालं भासा यः ।
रामो रामाधीराप्यागो लीलामारायोध्ये वासे ॥ १॥
अर्थातः मैं उन भगवान श्रीराम के चरणों में प्रणाम करता हूं जो
जिनके ह्रदय में सीताजी रहती है तथा जिन्होंने अपनी पत्नी
सीता के लिए सहयाद्री की पहाड़ियों से होते हुए लंका जाकर रावण का वध किया तथा वनवास पूरा कर अयोध्या वापिस लौटे।
विलोमम्
सेवाध्येयो रामालाली गोप्याराधी भारामोराः ।
यस्साभालंकारं तारं तं श्रीतं वन्देऽहं देवम् ॥ १॥
अर्थातः मैं रूक्मिणी तथा गोपियों के पूज्य भगवान श्रीकृष्ण के
चरणों में प्रणाम करता हूं जो सदा ही मां लक्ष्मी के साथ
विराजमान है तथा जिनकी शोभा समस्त जवाहरातों की शोभा हर लेती है।
राघवयादवीयम के ये 60 संस्कृत श्लोक इस प्रकार हैं
राघवयादवीयम् रामस्तोत्राणि
वंदेऽहं देवं तं श्रीतं रन्तारं कालं भासा यः ।
रामो रामाधीराप्यागो लीलामारायोध्ये वासे ॥ १॥
विलोमम्
सेवाध्येयो रामालाली गोप्याराधी भारामोराः ।
यस्साभालंकारं तारं तं श्रीतं वन्देऽहं देवम् ॥ १॥
साकेताख्या ज्यायामासीद्याविप्रादीप्तार्याधारा ।
पूराजीतादेवाद्याविश्वासाग्र्यासावाशारावा ॥ २॥
विलोमम्
वाराशावासाग्र्या साश्वाविद्यावादेताजीरापूः ।
राधार्यप्ता दीप्राविद्यासीमायाज्याख्याताकेसा ॥ २॥
कामभारस्स्थलसारश्रीसौधासौघनवापिका ।
सारसारवपीनासरागाकारसुभूरुभूः ॥ ३॥
विलोमम्
भूरिभूसुरकागारासनापीवरसारसा ।
कापिवानघसौधासौ श्रीरसालस्थभामका ॥ ३॥
रामधामसमानेनमागोरोधनमासताम् ।
नामहामक्षररसं ताराभास्तु न वेद या ॥ ४॥
विलोमम्
यादवेनस्तुभारातासंररक्षमहामनाः ।
तां समानधरोगोमाननेमासमधामराः ॥ ४॥
यन् गाधेयो योगी रागी वैताने सौम्ये सौख्येसौ ।
तं ख्यातं शीतं स्फीतं भीमानामाश्रीहाता त्रातम् ॥ ५॥
विलोमम्
तं त्राताहाश्रीमानामाभीतं स्फीत्तं शीतं ख्यातं ।
सौख्ये सौम्येसौ नेता वै गीरागीयो योधेगायन् ॥ ५॥
मारमं सुकुमाराभं रसाजापनृताश्रितं ।
काविरामदलापागोसमावामतरानते ॥ ६॥
विलोमम्
तेन रातमवामास गोपालादमराविका ।
तं श्रितानृपजासारंभ रामाकुसुमं रमा ॥ ६॥
रामनामा सदा खेदभावे दया-वानतापीनतेजारिपावनते ।
कादिमोदासहातास्वभासारसा-मेसुगोरेणुकागात्रजे भूरुमे ॥ ७॥
विलोमम्
मेरुभूजेत्रगाकाणुरेगोसुमे-सारसा भास्वताहासदामोदिका ।
तेन वा पारिजातेन पीता नवायादवे भादखेदासमानामरा ॥ ७॥
सारसासमधाताक्षिभूम्नाधामसु सीतया ।
साध्वसाविहरेमेक्षेम्यरमासुरसारहा ॥ ८॥
विलोमम्
हारसारसुमारम्यक्षेमेरेहविसाध्वसा ।
यातसीसुमधाम्नाभूक्षिताधामससारसा ॥ ८॥
सागसाभरतायेभमाभातामन्युमत्तया ।
सात्रमध्यमयातापेपोतायाधिगतारसा ॥ ९॥
विलोमम्
सारतागधियातापोपेतायामध्यमत्रसा ।
यात्तमन्युमताभामा भयेतारभसागसा ॥ ९॥
तानवादपकोमाभारामेकाननदाससा ।
यालतावृद्धसेवाकाकैकेयीमहदाहह ॥ १०॥
विलोमम्
हहदाहमयीकेकैकावासेद्ध्वृतालया ।
सासदाननकामेराभामाकोपदवानता ॥ १०॥
वरमानदसत्यासह्रीतपित्रादरादहो ।
भास्वरस्थिरधीरोपहारोरावनगाम्यसौ ॥ ११॥
विलोमम्
सौम्यगानवरारोहापरोधीरस्स्थिरस्वभाः ।
होदरादत्रापितह्रीसत्यासदनमारवा ॥ ११॥
यानयानघधीतादा रसायास्तनयादवे ।
सागताहिवियाताह्रीसतापानकिलोनभा ॥ १२॥
विलोमम्
भानलोकिनपातासह्रीतायाविहितागसा ।
वेदयानस्तयासारदाताधीघनयानया ॥ १२॥
रागिराधुतिगर्वादारदाहोमहसाहह ।
यानगातभरद्वाजमायासीदमगाहिनः ॥ १३॥
विलोमम्
नोहिगामदसीयामाजद्वारभतगानया ।
हह साहमहोदारदार्वागतिधुरागिरा ॥ १३॥
यातुराजिदभाभारं द्यां वमारुतगन्धगम् ।
सोगमारपदं यक्षतुंगाभोनघयात्रया ॥ १४॥
विलोमम्
यात्रयाघनभोगातुं क्षयदं परमागसः ।
गन्धगंतरुमावद्यं रंभाभादजिरा तु या ॥ १४॥
दण्डकां प्रदमोराजाल्याहतामयकारिहा ।
ससमानवतानेनोभोग्याभोनतदासन ॥ १५॥
विलोमम्
नसदातनभोग्याभो नोनेतावनमास सः ।
हारिकायमताहल्याजारामोदप्रकाण्डदम् ॥ १५॥
सोरमारदनज्ञानोवेदेराकण्ठकुंभजम् ।
तं द्रुसारपटोनागानानादोषविराधहा ॥ १६॥
विलोमम्
हाधराविषदोनानागानाटोपरसाद्रुतम् ।
जम्भकुण्ठकरादेवेनोज्ञानदरमारसः ॥ १६॥
सागमाकरपाताहाकंकेनावनतोहिसः ।
न समानर्दमारामालंकाराजस्वसा रतम् ॥ १७॥
विलोमम्
तं रसास्वजराकालंमारामार्दनमासन ।
सहितोनवनाकेकं हातापारकमागसा ॥ १७॥
तां स गोरमदोश्रीदो विग्रामसदरोतत ।
वैरमासपलाहारा विनासा रविवंशके ॥ १८॥
विलोमम्
केशवं विरसानाविराहालापसमारवैः ।
ततरोदसमग्राविदोश्रीदोमरगोसताम् ॥ १८॥
गोद्युगोमस्वमायोभूदश्रीगखरसेनया ।
सहसाहवधारोविकलोराजदरातिहा ॥ १९॥
विलोमम्
हातिरादजरालोकविरोधावहसाहस ।
यानसेरखगश्रीद भूयोमास्वमगोद्युगः ॥ १९॥
हतपापचयेहेयो लंकेशोयमसारधीः ।
राजिराविरतेरापोहाहाहंग्रहमारघः ॥ २०॥
विलोमम्
घोरमाहग्रहंहाहापोरातेरविराजिराः ।
धीरसामयशोकेलं यो हेये च पपात ह ॥ २०॥
ताटकेयलवादेनोहारीहारिगिरासमः ।
हासहायजनासीतानाप्तेनादमनाभुवि ॥ २१॥
विलोमम्
विभुनामदनाप्तेनातासीनाजयहासहा ।
ससरागिरिहारीहानोदेवालयकेटता ॥ २१॥
भारमाकुदशाकेनाशराधीकुहकेनहा ।
चारुधीवनपालोक्या वैदेहीमहिताहृता ॥ २२॥
विलोमम्
ताहृताहिमहीदेव्यैक्यालोपानवधीरुचा ।
हानकेहकुधीराशानाकेशादकुमारभाः ॥ २२॥
हारितोयदभोरामावियोगेनघवायुजः ।
तंरुमामहितोपेतामोदोसारज्ञरामयः ॥ २३॥
विलोमम्
योमराज्ञरसादोमोतापेतोहिममारुतम् ।
जोयुवाघनगेयोविमाराभोदयतोरिहा ॥ २३॥
भानुभानुतभावामासदामोदपरोहतं ।
तंहतामरसाभक्षोतिराताकृतवासविम् ॥ २४॥
विलोमम्
विंसवातकृतारातिक्षोभासारमताहतं ।
तं हरोपदमोदासमावाभातनुभानुभाः ॥ २४॥
हंसजारुद्धबलजापरोदारसुभाजिनि ।
राजिरावणरक्षोरविघातायरमारयम् ॥ २५॥
विलोमम्
यं रमारयताघाविरक्षोरणवराजिरा ।
निजभासुरदारोपजालबद्धरुजासहम् ॥ २५॥
सागरातिगमाभातिनाकेशोसुरमासहः ।
तंसमारुतजंगोप्ताभादासाद्यगतोगजम् ॥ २६॥
विलोमम्
जंगतोगद्यसादाभाप्तागोजंतरुमासतं ।
हस्समारसुशोकेनातिभामागतिरागसा ॥ २६॥
वीरवानरसेनस्य त्राताभादवता हि सः ।
तोयधावरिगोयादस्ययतोनवसेतुना ॥ २७॥
विलोमम्
नातुसेवनतोयस्यदयागोरिवधायतः ।
सहितावदभातात्रास्यनसेरनवारवी ॥ २७॥
हारिसाहसलंकेनासुभेदीमहितोहिसः ।
चारुभूतनुजोरामोरमाराधयदार्तिहा ॥ २८॥
विलोमम्
हार्तिदायधरामारमोराजोनुतभूरुचा ।
सहितोहिमदीभेसुनाकेलंसहसारिहा ॥ २८॥
नालिकेरसुभाकारागारासौसुरसापिका ।
रावणारिक्षमेरापूराभेजे हि ननामुना ॥ २९॥
विलोमम्
नामुनानहिजेभेरापूरामेक्षरिणावरा ।
कापिसारसुसौरागाराकाभासुरकेलिना ॥ २९॥
साग्र्यतामरसागारामक्षामाघनभारगौः ॥
निजदेपरजित्यास श्रीरामे सुगराजभा ॥ ३०॥
विलोमम्
भाजरागसुमेराश्रीसत्याजिरपदेजनि ।
गौरभानघमाक्षामरागासारमताग्र्यसा ॥ ३०॥
॥ इति श्रीवेङ्कटाध्वरि कृतं श्री राघव यादवीयं समाप्तम् ॥

Sunday, 25 October 2015


Mahishashurmardini stotra
श्री महिषासुरमर्दिनी स्तोत्रम ||
अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दनुते ॥
गिरिवरविंध्यषिरोधिनिवासिनि विष्णुविलासिनि जिष्णुनुते ।
भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते
जयजय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥ १॥
सुरवरवर्षिणि दुर्धरधर्षिणि धुर्मुखमर्षिणि हर्षरते
त्रिभुवनपोषिणि शंकरतोषिणि किल्बिषमोषिणि घोषरते ।
दनुजनिरोषिणि दितिसुतरोषिणिदुर्मदशोषिणि सिन्धुसुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २॥
अयि जगदम्ब मदम्ब कदम्बवन प्रियवासिनि हासरते
शिखरिशिरोमणि तुंगहिमालय शृंग निजालय मध्यगते
मधुमधुरे मधुकैतभभंजिनि कैटभभञ्जिनि रासरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥३॥
अयि शतखण्ड विखण्डितरुण्ड वितुण्डितशुण्ड गजाधिपते
रिपुगजगण्ड विदारणचण्ड पराक्रम शुण्ड मृगाधिपते।
निजभुजदण्ड निपातितखण्ड विपतितमुण्ड भटाधिपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥४॥
अयि रणदुर्मद शत्रुवधोदित दुर्धरनिर्जर शक्तिभृते
चतुरविचार धुरीणमहाशिव दूतकृत प्रमथाधिपते ।
दुरितदुरीह दु्राशयदुर्मति दानवदूत कृतान्तमते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ५॥
अयि शरणागत वैरिवधूवर वीरवराभय दायकरे
त्रिभुवन मस्तक शूलविरोधि शिरोधिकृतामल शूलकरे।
दुमिदुमितामर दुन्दुभिनाद महोमुखरीकृत तिग्मकरे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥६॥
अयि निजहुङ्कृतिमात्र निराकृत धूम्रविलोचन धूम्रचते
समरविशोषित शोणितबीज समुद्भव शोणित बीजलते।
शिवशिव शुम्भ निशुम्भमहाहव तर्पित भूत पिशाचरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ७॥
धनुरनुसङ्ग रणक्षणसङ्ग परिस्फुरदंगनटत्कटके
कनक पिशंग पृषत्कनिषंगरसद्भट शृङ्ग हतावटुके।
कृतचतुरंग बलक्षितरंग घटद्बहुरंग रटद्बटुके
जय जय हे महिषासुर मर्दिनि रम्यकपर्दिनि शैलसुते ॥८॥
जय जय जप्यजये जय शब्दपरस्तुति तत्पर विश्वनुते
भण भण भिन्जिमि भिंक्रतनूपुर सिंजितमोहित भूतपते ।
नटितनटार्ध नटीनटनायक नाटितनाट्य सुगानरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥९॥
अयि सुमन: सुमन: सुमन: सुमन: सुमनोहर कान्तियुते
श्रितरजनी रजनी रजनी रजनी रजनीकर वक्त्र वृते ।
सुनयनविभ्रमर भ्रमर भ्रमर भ्रमर भ्रमरधिपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१०॥
सहितमहाहव मल्लमतल्लिक मल्लितरल्लक मल्लरते
विरजितवल्लिक पल्लिकमल्लिकभिल्लिकभिल्लक वर्गवृते।
सितकृतफ़ुल्ल समुल्लसितारुणतल्लज्पल्लव सल्लल्लिते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ११॥
अविरलगण्डगलन्मदमेदुर मत्तमतङ्गज राजपते
त्रिभुवन भूषण भूतकलानिधि रुपपयोनिधि राजसुते।
अयि सुदतीजन लालसमानस मोहनमन्मथ राजसुते
जय जय हे महिसासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १२॥
कमलदलामल कोमलकान्ति कलाकलितामल भाललते
सकलविलास कलानिलयक्रम केलिवलत्कल हंसकुले ।
अलिकुल संकुल कुवलय मण्डल मौलिमिलद्र्कुलालिकुले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १३॥
करमुरलीरववीजित कूजित लज्जितकोकिल मञ्जुमते
मिलितपुलिन्द मनोहर गुञ्जित रञ्जितशैल निकुञ्जगते ।
निजगुणभूत महाशबरीगण सद् गुणसंभृत केलितले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१४॥
कटितटपीत दुकूलविचित्र मयूखतिरस्कृत चन्द्ररुचे
प्रणतसुरासुर मौलिमणिस्फुरदंशुलसन्नख चन्द्ररुचे।
जितकनकाचल मौलिपदोर्जित निर्भरकुंजरकुम्भकुचे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १५॥
विजित सहस्रकरैक सहस्रकरैक सहस्रकरैकनुते
कृतसुरतारक संगरतारक संगरतारक सूनुसुते।
सुरथसमाधि समानसमाधि समाधिसमाधि सुजातरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१६॥
पदकमलं करुणानिलये वरिवस्यति योऽनुदिनंसशिवे
अयि कमले कमलानिलये कमलानिलय: स कथं न भवेत् ।
तव पदमेव परंपदमित्यनुशीलयतो मम किं न शिवे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१७॥
कनकलसत्कल सिन्धुजलैरनु सिंचिनुतेगुण रंगभुवं
भजति स किं न शचीकुचकुम्भ तटीपरिरम्भ सुखानुभवम् ।
तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवं
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १८॥
तव विमलेन्दुकुलं वदनेन्दुमलं सकलं ननु कूलयते
किमु पुरुहूत पुरीन्दुमुखी सुमुखीभिरसौ विमुखीक्रियते ।
मम तु मतं शिवनामधने भवती कृपया किमुतक्रियते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१९॥
अयि मयि दीनदयालुतया कृपयैव त्वया भवितव्यमुमे
अयि जगतोजननी कृपयासि यथासि तथाऽनुमितासिरते ।
यदुचितमत्र भवत्युररी कुरुतादुरुतामपाकुरुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २०॥
Ambrish vyas

BKNMU B. Ed. Sem 3 Result

  Click Hear